|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.141. अध्यायः 141
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रत्यसाधुभ्यः प्रतिग्रहस्य निन्द्यत्वे प्रमाणतया सप्तर्षिवृषादर्भिसंवादानुवादः॥ 1 ॥ वृषादर्भिणा राज्ञा कश्यपादिसप्तर्षिभि- स्वस्मात्प्रतिग्रहनिराकरणे तज्जिघांसया कृत्योत्पादनम्॥ 2 ॥ तन्नामार्थपरिज्ञानेन तद्वधं चोदितया कृत्यया वने तत्समीपम्प्रति गमनम्॥ 3 ॥
Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
ब्राह्मणेभ्यः प्रयच्छन्ति दानानि विविधानि च।
दातृप्रतिग्रहीत्रोर्वै को विशेषः पितामह॥ 13-141-1(86823)
भीष्म उवाच। 13-141-2x(7196)
साधोर्यः प्रतिगृह्णीयात्तथैवासाधुतो द्विजः।
गुणवत्यल्पदोषः स्यान्निर्गुणे तु निमज्जति॥ 13-141-2(86824)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
वृषादर्भेश्च संवादं सप्तर्षीणां च भारत॥ 13-141-3(86825)
कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः।
विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुन्धती॥ 13-141-4(86826)
सर्वेषामथ तेषां तु गण्डाभूत्परिचारिका।
शूद्रः पशुसखश्चैव भर्ता चास्या बभूव ह॥ 13-141-5(86827)
ते च सर्वे तपस्यन्तः पुरा चेरुर्महीमिमाम्।
समाधिना प्रतीक्षन्तो ब्रह्मलोकं सनातनम्॥ 13-141-6(86828)
अथाभवदनावृष्टिर्महती कुरुनन्दन।
कृच्छ्रप्राणोऽभवद्यत्र लोकोऽयं वै क्षुधान्वितः॥ 13-141-7(86829)
कस्मिंश्चिच्च पुरा यज्ञे याज्येन शिबिसूनुना।
दक्षिणार्थेऽथ ऋत्विग्भ्यो दत्तः पुत्रोऽनिलः किल 13-141-8(86830)
अस्मिन्कालेऽथ सोऽल्पायुर्दिष्टान्तमगमत्प्रभुः।
ते तं क्षुधाभिसन्तप्ताः परिवार्योपतस्थिरे॥ 13-141-9(86831)
याज्यात्मजमथो दृष्ट्वा गतासुमृषिसत्तमाः।
अपचन्त तदा स्थाल्यां क्षुधार्ताः किल भारत 13-141-10(86832)
नाजीव्ये मर्त्यलोकेऽस्मिन्नात्मानं ते परीप्सवः।
कृच्छ्रामापेदिरे वृत्तिमन्नहेतोस्तपस्विनः॥ 13-141-11(86833)
अटमानोऽथ तान्मार्गे पचमानान्महीपतिः।
राजा शैब्यो वृषादर्भिः क्लिश्यमानान्ददर्श ह॥ 13-141-12(86834)
वृषादर्भिरुवाच। 13-141-13x(7197)
प्रतिग्रहस्तारयति पुष्टिर्वै प्रतिगृह्णताम्।
मयि यद्विद्यते वित्तं तद्वृणुध्वं तपोधनाः॥ 13-141-13(86835)
`प्रतिग्रहो ब्राह्मणानां सृष्टा वृत्तिरनिन्दिता।
तस्माद्ददामि वो वित्तं तद्वृणुध्वं तपोधनाः॥' 13-141-14(86836)
प्रियो हि मे ब्राह्मणो याचमानो
दद्यामहं वोऽश्वतरीसहस्रम्।
धेनूनां दद्यामयुतं समग्र-
मेकैकशः सवृषाः सम्प्रसूताः॥ 13-141-15(86837)
अश्वांस्तथा शीघ्रगाञ्श्वेतरूपां-
न्मनोजवान्प्रददाम्यर्बुदानि।
कुलम्भराननडुहः शतं शता-
न्धुर्याञ्श्वेतान्सर्वशोऽहं ददामि।
प्रष्ठौहीनां पीवराणां च ताव-
दग्र्या गृष्टीर्धेनवः सुव्रताश्च॥ 13-141-16(86838)
वरान्ग्रमान्व्रीहिरसं यवांश्च
रत्नं चान्यद्दुर्लभं किं ददानि।
नास्मिन्नभक्ष्ये भावमेवं कुरुध्वं
पुष्ट्यर्थं वः किं प्रयच्छाम्यहं वै॥ 13-141-17(86839)
ऋषय ऊचुः। 13-141-18x(7198)
राजन्प्रतिग्रहो राज्ञं मध्वास्वादो विषोपमः।
तज्जानमानः कस्मात्त्वं कुरुषे नः प्रलोभनम्॥ 13-141-18(86840)
`दशसूनासमश्चक्री दशचक्रिसमो ध्वजी।
दशध्वजिसमा वेश्या दशवेश्यासमो नृपः॥ 13-141-19(86841)
दशसूनासहस्राणि यो वाहयति सौनिकः।
तेन तुल्यो भवेद्राजा घोरस्तस्य प्रतिग्रहः॥' 13-141-20(86842)
क्षेत्रं हि दैवतमिव ब्राह्मणान्समुपाश्रितम्।
अमलो ह्येष तपसा प्रीतः प्रीणाति देवताः॥ 13-141-21(86843)
अह्नायेह तपो जातु ब्राह्मणस्योपजायते।
तद्दाव इव निर्दह्यात्प्राप्तो राजप्रतिग्रहः॥ 13-141-22(86844)
कुशलं सह दानेन राजन्नस्तु सदा तव।
अर्थिभ्यो दीयतां सर्वमित्युक्त्वा तेन्यतो ययुः॥ 13-141-23(86845)
अपक्वमेव तन्मांसमभूत्तेषां महात्मनाम्।
अथ हित्वा ययु सर्वे वनमाहारकाङ्क्षिणः॥ 13-141-24(86846)
ततः प्रचोदिता राज्ञा वनं गत्वाऽस्य मन्त्रिणः।
प्रचीयोदुम्बराणि स्म दातुं तेषां प्रचक्रिरे॥ 13-141-25(86847)
`दृष्ट्वा फलानि मुनयस्ते ग्रहीतुमुपाद्रवन्॥' 13-141-26(86848)
उदुम्बराण्यथान्यानि हेमगर्भाण्युपाहरन्।
भृत्यास्तेषां ततस्तानि प्रग्राहितुमुपाद्रवन्॥ 13-141-27(86849)
गुरूणीति विदित्वाऽथ न ग्राह्याण्यत्रिरब्रवीत्।
नास्मेह मन्दविज्ञाना नास्म मानुषबुद्धयः॥ 13-141-28(86850)
हैमानीमानि जानीमः प्रतिबुद्धाः स्म जागृम।
इह ह्येतदुपावृत्तं प्रेत्य स्यात्कटुकोदयम्।
अप्रतिग्राह्यमेवैतत्प्रेत्येह च सुखेप्सुना॥ 13-141-29(86851)
वसिष्ठ उवाच। 13-141-30x(7199)
शतेन निष्कगुणितं सहस्रेण च सम्मितम्।
तथा बहु प्रतीच्छन्वै पापिष्ठां लभते गतिम्॥ 13-141-30(86852)
कश्यप उवाच। 13-141-31x(7200)
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः।
सर्वं तन्नालमेकस्य तस्माद्विद्वाञ्शमं व्रजेत्॥ 13-141-31(86853)
भरद्वाज उवाच। 13-141-32x(7201)
उत्पन्नस्य रुरोः शृङ्गं वर्दमानस्य वर्धते।
प्रार्थना पुरुषस्येव तस्य मात्रा न विद्यते॥ 13-141-32(86854)
गौतम उवाच। 13-141-33x(7202)
न तल्लोके द्रव्यमस्ति यल्लोभं प्रतिपूरयेत्।
समुद्रकल्पः पुरुषो न कदाचन पूर्यते॥ 13-141-33(86855)
विश्वामित्र उवाच। 13-141-34x(7203)
कामं कामयमानस्य यदा कामः समृध्यते।
अथैनमपरः काम इष्टो विध्यति बाणवत्॥ 13-141-34(86856)
`अत्रिरुवाच। 13-141-35x(7204)
न जातु कामः कामानामुपभोगेन शाम्यति।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते॥' 13-141-35(86857)
जमदग्निरुवाच। 13-141-36x(7205)
प्रतिग्रहे संयमो वै तपो धारयते ध्रुवम्।
तद्धनं ब्राह्मणस्येह लुभ्यमानस्य विस्रवेत्॥ 13-141-36(86858)
अरुन्धत्युवाच। 13-141-37x(7206)
धर्मार्थं सञ्चयो यो वा द्रव्याणां पक्षसम्मतः।
तपःसञ्चय एवेह विशिष्टो द्रव्यसञ्चयात्॥ 13-141-37(86859)
चण्डोवाच। 13-141-38x(7207)
उग्रादितो भयाद्यस्माद्बिभ्यतीमे ममेश्वराः।
बलीयसो दुर्बलवद्बिभेम्यहमतः परम्॥ 13-141-38(86860)
पशुसस्व उवाच। 13-141-39x(7208)
यद्वै धर्मात्परं नास्ति तादृशं ब्राह्मणा विदुः।
विनयात्साधु विद्वांसमुपासेयं यथातथम्॥ 13-141-39(86861)
ऋषय ऊचुः। 13-141-40x(7209)
कुशलं सह दानेन तस्मै यस्य प्रजा इमाः।
फलान्युपधियुक्तानि य एवं नः प्रयच्छति॥ 13-141-40(86862)
भीष्म उवाच। 13-141-41x(7210)
इत्युक्त्वा हेमगर्भाणि हित्वा तानि फलानि ते।
ऋषयो जग्मुरन्यत्र सर्व एव दृढव्रताः॥ 13-141-41(86863)
अथ ते मन्त्रिणः सर्वे राजानमिदमब्रुवन्।
उपधिं शङ्कमानास्ते हित्वा तानि फलानि वै।
ततोऽन्यत्रैव गच्छन्ति विदितं तेऽस्तु पार्थिव॥ 13-141-42(86864)
इत्युक्तः स तु भृत्यैस्तैर्वृषादर्भिश्चुकोप ह।
तेषां वै प्रतिकर्तुं च सर्वेषामगमद्गृहम्॥ 13-141-43(86865)
स गत्वाऽऽहवनीयेऽग्नौ तीव्रं नियममास्थितः।
जुहाव संस्कृतैर्मन्त्रैरेकैकामाहुतिं नृपः॥ 13-141-44(86866)
तस्मादग्नेः समुत्तस्थौ कृत्या लोकभयंकरी।
तस्या नाम वृषादर्भिर्यातुधानीत्यथाकरोत्॥ 13-141-45(86867)
सा कृत्या कालरात्रीव कृताञ्जलिरुपस्थिता।
वृषादर्भि नरपतिं किं करोमीति चाब्रवीत्॥ 13-141-46(86868)
वृषादर्भिरुवाच। 13-141-47x(7211)
ऋषीणां गच्छ सप्तानामरुन्धत्यास्तथैव च।
दासीभर्तुश्च दास्याश्च मनसा नाम धारय॥ 13-141-47(86869)
ज्ञात्वा नामानि चैवैषां सर्वानेतान्विनाशय।
विनष्टेषु तथा स्वैरं गच्छ यत्रेप्सितं तव॥ 13-141-48(86870)
सा तथेति प्रतिश्रुत्य यातुधानी स्वरूपिणी।
जगाम तद्वनं यत्र विचेरुस्ते महर्षयः॥ ॥ 13-141-49(86871)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकचत्वारिंशदधिकशततमोऽध्यायः॥ 141 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-141-3 वृषा दर्वेश्च संवादमिति थ.ध.पाठः॥ 7-141-5 गण्डाभूत्कर्मकारिकेति झ.पाठः। गण्डा नामतः॥ 7-141-9 दिष्टान्तं मरणम्॥ 7-141-11 आत्मानं शरीरं परीप्सवः रक्षितुकामाः। निरन्ने मर्त्यलोकेऽस्मिन्निति झ.पाठः॥ 7-141-13 पुष्टिः पुष्टिहेतुः। तच्छृणुध्वं तपोधना इति ट.थ.ध.पाठः॥ 7-141-30 प्रतीच्छन् प्रतिगृह्णन्॥ 7-141-32 तस्य लाभसुखस्य मात्रा इयत्ता॥ 7-141-36 तद्धनं तपोधनम्॥ 7-141-37 पक्षसम्मतः पाक्षिकत्वेन मतः॥ 7-141-39 यद्वै धर्मे परं नास्ति ब्राह्मणास्तद्धनं विदुरिति झ.पाठः। यत् यतो हेतोः। वैधर्मे विधर्म एव वैधर्मः तस्मिँलोभादिदोषे सति परं उत्कृष्टं पदं नास्ति न लभ्यतेऽतस्तदलोभाख्यमेव धनं ब्राह्मणा विदुः॥ 7-141-40 उपधिश्छलम्। कश्मलाधमदानाय प्रतियत्नः प्रजाधमाः। फलान्युपधियुक्तानि यत्र यः सम्प्रच्छतीति थ.ध.पाठः॥ 7-141-47 नाम नाम्नोर्थम्॥ 7-141-48 ज्ञात्वा नामानुरूपं तेषां सामर्थ्यं परीक्ष्य तान् विनाशय। अन्यथा त्वामेव ते विनाशयिष्यन्तीति भावः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|